Wednesday, January 28, 2015

2nd Chapter 11th Sloka

श्रीभगवानुवाच
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥२.११॥

śrībhagavānuvāca
aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase |
gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ ||2.11||

श्रीभगवान् 1/1 उवाच III/1
अशोच्यान् 2/3 अन्वशोचः II/1 त्वम् 1/1 प्रज्ञावादान् 2/3 0 भाषसे II/1
गतासून् 2/3 अगतासून् 2/3 0 0 अनुशोचन्ति III/3 पण्डिताः 1/3 ॥२.११॥

·         श्रीभगवान् [śrībhagavān] = Śrībhagavān = श्रीभगवत् (m.) + कर्तरि to उवाच 1/1        
·         उवाच [uvāca] = said = वच् (2P) to say + लिट्/कर्तरि/III/1

·         अशोच्यान् [aśocyān] = those who should not be grieved for = अशोच्य (m.) + कर्मणि to अन्वशोचः 2/3
o   शुच् (to grieve) + य (object which should be …ed)
o   शोच्य
o   न शोच्याः अशोच्याः
·         अन्वशोचः [anvaśocaḥ] = grieve = अनु + शुच् + लङ्/कर्तरि/II/1
o   अनु + शुच् + लङ्
o   अनु + शुच् + सिप्           तिबादि
o   अनु + शुच् + स्              अनुबन्धलोपः, इकारलोपः by 3.4.99 नित्यं ङितः।
o   अनु + शुच् + शप् + स्     गणविकरण-प्रत्यय for 1st conjugation by 3.1.68 कर्तरि शप् । ~ सार्वधातुके
o   अनु + शोच् + + स्      अनुबन्धलोपः, गुणः by 7.3.86 पुगन्तलघूपधस्य च । ~ सार्वधातुकार्धधातुकयोः गुणः
o   अनु + अट्+ शोच् + अ + स्         अडागमः by 6.4.71 लुङ्लङ्लृङ्क्ष्वडुदात्तः ।
o   अन्व् + अशोचः              यण्-सन्धिः, पदान्तसकार becomes विसर्ग
·         त्वम् [tvam] = you= युष्मद् (pron. m.) + कर्तरि to अन्वशोचः 1/1
·         प्रज्ञावादान् [prajñāvādān] = words of wisdom = प्रज्ञावाद (m.) + कर्मणि to भाषसे 2/3
·         [ca] = and = अव्ययम्
·         भाषसे [bhāṣase] = speak = भाष् (1A) to speak + लट्/कर्तरि/II/1
·         गतासून् [gatāsūn] = those from whom the breath has left = गतासु (m.) + कर्मणि to अनुशोचन्ति 2/3
o   गतः असुः येभ्यः ते गतासवः । Those from whom the breath (असु) is gone (गत)
·         अगतासून् [agatāsūn] = those from whom the breath has not yet left = अगतासु (m.) + कर्मणि to अनुशोचन्ति 2/3
o   न गतासवः इति अगतासवः। Those who are not गतासवः, those who are alive
·         [ca] = and = अव्ययम्
·         [na] = not = अव्ययम्
·         अनुशोचन्ति [anuśocanti] = grieve = अनु + शुच् + लट् /कर्तरि/III/3
·         पण्डिताः [paṇḍitāḥ] = the wise = पण्डित (m.) + कर्तरि to अनुशोचन्ति 1/3
o   ण्डा अस्य सञ्जातम् इति पण्डितः । 5.2.36 तदस्य सञ्जातं तारकदिभ्य इतच् ।
o   ण्डा is not in तारकदिगण but it is आकृतिगण


Sentence 1:
श्रीभगवान् 1/1 उवाच III/1
Śrībhagavān (श्रीभगवान् 1/1) said (उवाच III/1).
Sentence 2:
त्वम् 1/1 अशोच्यान् 2/3 अन्वशोचः II/1
You (त्वम् 1/1) grieve (अन्वशोचः II/1) those who should not be grieved for (अशोच्यान् 2/3).

Sentence 3:
 [त्वम् 1/1] प्रज्ञावादान् 2/3 0 भाषसे II/1
You (त्वम् 1/1) also ( 0) speak (भाषसे II/1) words of wisdom (प्रज्ञावादान् 2/3).

Sentence 4:
पण्डिताः 1/3 गतासून् 2/3 अगतासून् 2/3 0 0 अनुशोचन्ति III/3 ॥२.११॥
The wise (पण्डिताः 1/3) do not grieve ( 0 अनुशोचन्ति III/3) for those who are dead (गतासून् 2/3) and ( 0) those who are alive (अगतासून् 2/3).


अत्र दृष्ट्वा तु पाण्डवानीकम्” (भ. गी. १ । २) इत्यारभ्य यावत् न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह” (भ. गी. २ । ९) इत्येतदन्तः प्राणिनां शोकमोहादिसंसारबीजभूतदोषोद्भवकारणप्रदर्शनार्थत्वेन व्याख्येयो ग्रन्थः ।
अत्र 0 दृष्ट्वा तु पाण्डवानीकम्” (भ. गी. १।२) इत्यारभ्य 0 यावत् 0 न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह” (भ. गी. २ । ९) इति-एतद्-अन्तः 1/1 प्राणिनाम् 6/3 शोक-मोह-आदि-संसार-बीज-भूत-दोष-उद्भव-कारण-प्रदर्शन-अर्थत्वेन 3/1 व्याख्येयः 1/1 ग्रन्थः 1/1

तथाहि अर्जुनेन राज्यगुरुपुत्रमित्रसुहृत्स्वजनसम्बन्धिबान्धवेषु अहमेतेषाम्” “ममैतेइत्येवंप्रत्ययनिमित्तस्नेहविच्छेदादिनिमित्तौ आत्मनः शोकमोहौ प्रदर्शितौ कथं भीष्ममहं सङ्‍ख्ये” (भ. गी. २ । ४) इत्यादिना ।
तथाहि 0 अर्जुनेन 3/1 राज्य-गुरु-पुत्र-मित्र-सुहृत्-स्वजन-सम्बन्धि-बान्धवेषु 7/3 अहम् 1/1 एतेषाम् 6/3” “मम 6/1 एते 1/3इति-एवं-प्रत्यय-निमित्त-स्नेह-विच्छेद-आदि-निमित्तौ 1/2 आत्मनः 6/1 शोक-मोहौ 1/2 प्रदर्शितौ 1/2 कथं भीष्ममहं सङ्‍ख्ये” (भ. गी. २ । ४) इत्यादिना 3/1

शोकमोहाभ्यां ह्यभिभूतविवेकविज्ञानः स्वत एव क्षत्रधर्मे युद्धे प्रवृत्तोऽपि तस्माद्युद्धादुपरराम ; परधर्मं च भिक्षाजीवनादिकं कर्तुं प्रववृते ।
शोक-मोहाभ्याम् 3/2 हि 0 अभिभूत-विवेक-विज्ञानः 1/1 स्वतः 0 एव 0 क्षत्रधर्मे 7/1 युद्धे 7/1 प्रवृत्तः 1/1 अपि 0 तस्मात् 5/1 युद्धात् 5/1 उपरराम III/1; पर-धर्मम् 2/1 0 भिक्षा-जीवन-आदिकम् 2/1 कर्तुम् 0 प्रववृते III/1

तथा च सर्वप्राणिनां शोकमोहादिदोषाविष्टचेतसां स्वभावत एव स्वधर्मपरित्यागः प्रतिषिद्धसेवा च स्यात् ।
तथा 0 0 सर्व-प्राणिनाम् 6/3 शोक-मोह-आदि-दोष-आविष्ट-चेतसाम् 6/3 स्वभावतः 0 एव 0 स्व-धर्म-परित्यागः 1/1 प्रतिषिद्ध-सेवा 1/1 0 स्यात् III/1

स्वधर्मे प्रवृत्तानामपि तेषां वाङ्मनःकायादीनां प्रवृत्तिः फलाभिसन्धिपूर्विकैव साहङ्कारा च भवति ।
स्वधर्मे 7/1 प्रवृत्तानाम् 6/3 अपि 0 तेषाम् 6/3 वाक्-मनः-काय-आदीनाम् 6/3 प्रवृत्तिः 1/1 फल-अभिसन्धि-पूर्विका 1/1 एव 0 साहङ्कारा 1/1 0 भवति III/1

तत्रैवं सति धर्माधर्मोपचयात् इष्टानिष्टजन्मसुखदुःख़ादिप्राप्तिलक्षणः संसारः अनुपरतो भवति ।
तत्र 0 एवम् 0 सति 7/1 धर्म-अधर्म-उपचयात् 5/1 इष्ट-अनिष्ट-जन्म-सुख-दुःख़-आदि-प्राप्ति-लक्षणः 1/1 संसारः 1/1 अनुपरतः 1/1 भवति III/1

इत्यतः संसारबीजभूतौ शोकमोहौ ।
इति 0 अतः 0 संसार-बीज-भूतौ 1/2 शोक-मोहौ 1/2

तयोश्च सर्वकर्मसंन्यासपूर्वकादात्मज्ञानात् नान्यतो निवृत्तिरिति तदुपदिदिक्षुः सर्वलोकानुग्रहार्थम् अर्जुनं निमित्तीकृत्य आह भगवान्वासुदेवः — “अशोच्यान्” (भ. गी. २ । ११) इत्यादि ॥
तयोः 6/2 0 सर्व-कर्म-संन्यास-पूर्वकात् 5/1 आत्म-ज्ञानात् 5/1 0 अन्यतः 0 निवृत्तिः 1/1 इति 0 तत् 2/1 उपदिदिक्षुः 1/1 सर्व-लोक-अनुग्रह-अर्थम् 0 अर्जुनम् 2/1 निमित्तीकृत्य 0 आह III/1 भगवान् 1/1 वासुदेवः 1/1 — “अशोच्यान्” (भ. गी. २ । ११) इत्यादि 2/1

अत्र केचिदाहुः सर्वकर्मसंन्यासपूर्वकादात्मज्ञाननिष्ठामात्रादेव केवलात् कैवल्यं न प्राप्यत एव ।
अत्र 0 केचित् 0 आहुः III/3सर्व-कर्म-संन्यास-पूर्वकात् 5/1 आत्म-ज्ञान-निष्ठा-मात्रात् 5/1 एव 0 केवलात् 5/1 कैवल्यम् 1/1 0 प्राप्यते III/1 एव 0

किं तर्हि ? अग्निहोत्रादिश्रौतस्मार्तकर्मसहितात् ज्ञानात् कैवल्यप्राप्तिरिति सर्वासु गीतासु निश्चितोऽर्थ इति ।
किम् 1/1 तर्हि 0? अग्निहोत्र-आदि-श्रौत-स्मार्त-कर्म-सहितात् 5/1 ज्ञानात् 5/1 कैवल्य-प्राप्तिः 1/1 इति 0 सर्वासु 7/3 गीतासु 7/3 निश्चितः 1/1 अर्थः 1/1 इति 0

ज्ञापकम् 2/1 0 आहुः III/3 अस्य 6/1 अर्थस्य 6/1 — “अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि” (भ. गी. २ । ३३) कर्मण्येवाधिकारस्ते” (भ. गी. २ । ४७) कुरु कर्मैव तस्मात्त्वम्” (भ. गी. ४ । १५) इत्यादि 0

हिंसादियुक्तत्वात् वैदिकं कर्म अधर्माय इतीयमप्याशङ्का न कार्या ।
हिंसादि-युक्तत्वात् 5/1 वैदिकम् 1/1 कर्म 1/1 अधर्माय 4/1 इति 0 इयम् 1/1 अपि 0 आशङ्का 1/1 0 कार्या 1/1

कथम् ? क्षात्रं कर्म युद्धलक्षणं गुरुभ्रातृपुत्रादिहिंसालक्षणमत्यन्तं क्रूरमपि स्वधर्म इति कृत्वा न अधर्माय ; तदकरणे च ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि” (भ. गी. २ । ३३) इति ब्रुवता यावज्जीवादिश्रुतिचोदितानां पश्वादिहिंसालक्षणानां च कर्मणां प्रागेव नाधर्मत्वमिति सुनिश्चितमुक्तं भवति इति ॥
कथम् 0 ? क्षात्रम् 1/1 कर्म 1/1 युद्ध-लक्षणम् 1/1 गुरु-भ्रातृ-पुत्र-आदि-हिंसा-लक्षणम् 1/1 अत्यन्तम् 1/1 क्रूरम् 1/1 अपि 0 स्वधर्मः 1/1 इति 0 कृत्वा 0 0 अधर्माय 4/1; तद्-अकरणे 7/1 0 ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि” (भ. गी. २ । ३३) इति 0 ब्रुवता 3/1 यावज्जीव-आदि-श्रुति-चोदितानाम् 6/3 पशु-आदि-हिंसा-लक्षणानाम् 6/3 0 कर्मणाम् 6/3 प्राक् 0 एव 0 0 अधर्मत्वम् 1/1 इति 0 सुनिश्चितम् 1/1 उक्तम् 1/1 भवति III/1इति 0

तदसत् ; ज्ञानकर्मनिष्ठयोर्विभागवचनाद्बुद्धिद्वयाश्रययोः ।
तत् 1/1 असत् 1/1; ज्ञान-कर्म-निष्ठयोः 6/3 विभाग-वचनात् 5/1 बुद्धि-द्वय-आश्रययोः 6/2

अशोच्यान्” (भ. गी. २ । ११) इत्यादिना भगवता यावत् स्वधर्ममपि चावेक्ष्य” (भ. गी. २ । ३१) इत्येतदन्तेन ग्रन्थेन यत्परमार्थात्मतत्त्वनिरूपणं कृतम्, तत्साङ्ख्यम् ।
अशोच्यान्” (भ. गी. २ । ११) इत्यादिना 3/1 भगवता 3/1 यावत् 0 स्वधर्ममपि चावेक्ष्य” (भ. गी. २ । ३१) इति एतत्-अन्तेन 3/1 ग्रन्थेन 3/1 यत् 1/1 परम-अर्थ-आत्म-तत्त्व-निरूपणम् 1/1 कृतम् 1/1, तत् 1/1 साङ्ख्यम् 1/1

तद्विषया बुद्धिः आत्मनो जन्मादिषड्विक्रियाभावादकर्ता आत्मेति प्रकरणार्थनिरूपणात् या जायते, सा साङ्ख्याबुद्धिः ।
तद्-विषया 1/1 बुद्धिः 1/1 आत्मनः 6/1 जन्म-आदि-षट्-विक्रिया-अभावात् 5/1 अकर्ता 1/1 आत्मा 1/1 इति 0 प्रकरण-अर्थ-निरूपणात् 5/1 या 1/1 जायते III/1, सा 1/1 साङ्ख्याबुद्धिः 1/1

सा येषां ज्ञानिनामुचिता भवति, ते साङ्ख्याः ।
सा 1/1 येषाम् 6/3 ज्ञानिनाम् 6/3 उचिता 1/1 भवति III/1, ते 1/3 साङ्ख्याः 1/3

एतस्या बुद्धेः जन्मनः प्राक् आत्मनो देहादिव्यतिरिक्तत्वकर्तृत्वभोक्तृत्वाद्यपेक्षो धर्माधर्मविवेकपूर्वको मोक्षसाधनानुष्ठानलक्षणो योगः ।
एतस्याः 6/1 बुद्धेः 6/1 जन्मनः 5/1 प्राक् 0 आत्मनः 6/1 देह-आदि-व्यतिरिक्तत्व-कर्तृत्व-भोक्तृत्व-आदि-अपेक्षः 1/1 धर्म-अधर्म-विवेक-पूर्वकः 1/1 मोक्ष-साधन-अनुष्ठान-लक्षणः 1/1 योगः 1/1

तद्विषया बुद्धिः योगबुद्धिः ।
तद्-विषया 1/1 बुद्धिः 1/1 योगबुद्धिः 1/1

सा येषां कर्मिणामुचिता भवति ते योगिनः ॥
सा 1/1 येषाम् 6/3 कर्मिणाम् 6/3 उचिता 1/1 भवति III/1, ते 1/3 योगिनः 1/3

तथा च भगवता विभक्ते द्वे बुद्धी निर्दिष्टे एषा तेऽभिहिता साङ्‍ख्ये बुद्धिर्योगे त्विमां शृणु” (भ. गी. २ । ३९) इति ।
तथा 0 0 भगवता 3/1 विभक्ते 1/2 द्वे 1/2 बुद्धी 1/2 निर्दिष्टे 1/2एषा 1/1 ते 4/1 अभिहिता 1/1 साङ्‍ख्ये 7/1 बुद्धिः 1/1 योगे 7/1 तु 0 इमाम् 2/1 शृणु II/1” (भ. गी. २ । ३९) इति 0

तयोश्च साङ्‍ख्यबुद्ध्याश्रयां ज्ञानयोगेन निष्ठां साङ्‍ख्यानां विभक्तां वक्ष्यति पुरा वेदात्मना मया प्रोक्ता” (भ. गी. ३ । ३) इति ।
तयोः 7/2 0 साङ्‍ख्य-बुद्धि-आश्रयाम् 2/1 ज्ञानयोगेन 3/1 निष्ठाम् 2/1 साङ्‍ख्यानाम् 6/3 विभक्ताम् 2/1 वक्ष्यति III/1 पुरा 0 वेदात्मना 3/1 मया 3/1 प्रोक्ता 1/1” (भ. गी. ३ । ३) इति 0

तथा च योगबुद्ध्याश्रयां कर्मयोगेन निष्ठां विभक्तां वक्ष्यति — “कर्मयोगेन योगिनाम्इति ।
तथा 0 0 योग-बुद्धि-आश्रयाम् 6/3 कर्मयोगेन 3/1 निष्ठाम् 2/1 विभक्ताम् 2/1 वक्ष्यति III/1 — “कर्मयोगेन 3/1 योगिनाम् 6/3इति 0

एवं साङ्‍ख्यबुद्धिं योगबुद्धिं च आश्रित्य द्वे निष्ठे विभक्ते भगवतैव उक्ते ज्ञानकर्मणोः कर्तृत्वाकर्तृत्वैकत्वानेकत्वबुद्ध्याश्रययोः युगपदेकपुरुषाश्रयत्वासम्भवं पश्यता ।
एवम् 0 साङ्‍ख्यबुद्धिम् 2/1 योगबुद्धिम् 2/1 0 आश्रित्य 0 द्वे 1/2 निष्ठे 1/2 विभक्ते 1/2 भगवता 3/1 एव 0 उक्ते 1/2 ज्ञान-कर्मणोः 6/2 कर्तृत्व-अकर्तृत्व-एकत्व-अनेकत्व-बुद्धि-आश्रययोः 6/2 युगपत्-एक-पुरुष-आश्रयत्व-असम्भवम् 2/1 पश्यता 3/1

यथा एतद्विभागवचनम्, तथैव दर्शितं शातपथीये ब्राह्मणे — “एतमेव प्रव्राजिनो लोकमिच्छन्तो ब्राह्मणाः प्रव्रजन्तिइति सर्वकर्मसंन्यासं विधाय तच्छेषेण किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः” (बृ. उ. ४ । ४ । २२) इति ।
यथा 0 एतत्-विभाग-वचनम् 1/1, तथा 0 एव 0 दर्शितम्1/1 शातपथीये 7/1 ब्राह्मणे 7/1 — “एतम् 2/1 एव 0 प्रव्राजिनः 1/3 लोकम् 2/1 इच्छन्तः 1/3 ब्राह्मणाः 1/3 प्रव्रजन्ति III/3इति 0 सर्व-कर्म-संन्यासम् 2/1 विधाय 0 तत्-शेषेण 3/1 किम् 0 प्रजया 3/1 करिष्यामः I/3 येषाम् 6/3 नः 6/3 अयम् 1/1 आत्मा 1/1 अयम् 1/1 लोकः 1/1” (बृ. उ. ४ । ४ । २२) इति 0

तत्र च प्राक् दारपरिग्रहात् पुरुषः आत्मा प्राकृतो धर्मजिज्ञासोत्तरकालं लोकत्रयसाधनम् पुत्रम्, द्विप्रकारं च वित्तं मानुषं दैवं च; तत्र मानुषं कर्मरूपं पितृलोकप्राप्तिसाधनं विद्यां च दैवं वित्तं देवलोकप्राप्तिसाधनम् — “सोऽकामयत” (बृ. उ. १ । ४ । १७) इति अविद्याकामवत एव सर्वाणि कर्माणि श्रौतादीनि दर्शितानि ।
तत्र 0 0 प्राक् 0 दार-परिग्रहात् 5/1 पुरुषः 1/1 आत्मा 1/1 प्राकृतः 1/1 धर्म-जिज्ञास-उत्तर-कालम् 2/1 लोक-त्रय-साधनम् 2/1पुत्रम् 2/1, द्विप्रकारम् 2/1 0 वित्तम् 2/1 मानुषम् 2/1 दैवम् 2/1 0; तत्र 0 मानुषम् 2/1 कर्मरूपम् 2/1 पितृ-लोक-प्राप्ति-साधनम् 2/1 विद्याम् 2/1 0 दैवम् 2/1 वित्तम् 2/1 देव-लोक-प्राप्ति-साधनम् 2/1 — “सः 1/1 अकामयत III/1” (बृ. उ. १ । ४ । १७) इति 0 अविद्या-कामवतः 6/1 एव 0 सर्वाणि 1/3 कर्माणि 1/3 श्रौतादीनि 1/3 दर्शितानि 1/3

तेभ्यः व्युत्थाय, प्रव्रजन्तिइति व्युत्थानमात्मानमेव लोकमिच्छतोऽकामस्य विहितम् ।
तेभ्यः 5/3 व्युत्थाय 0, प्रव्रजन्ति III/3इति 0 व्युत्थानम् 1/1 आत्मानम् 2/1 एव 0 लोकम् 2/1 इच्छतः 6/1 अकामस्य 6/1 विहितम् 1/1

तदेतद्विभागवचनमनुपपन्नं स्याद्यदि श्रौतकर्मज्ञानयोः समुच्छयोऽभिप्रेतः स्याद्भगवतः ॥
तत् 1/1 एतत् 1/1 विभाग-वचनम् 1/1 अनुपपन्नम् 1/1 स्यात् III/1 यदि 0 श्रौत-कर्म-ज्ञानयोः 6/2 समुच्छयः 1/1 अभिप्रेतः 1/1 स्यात् III/1 भगवतः 6/1

न च अर्जुनस्य प्रश्न उपपन्नो भवति ज्यायसी चेत्कर्मणस्ते” (भ. गी. ३ । १) इत्यादिः ।
0 0 अर्जुनस्य 6/1 प्रश्नः 1/1 उपपन्नः 1/1 भवति III/1 ज्यायसी 1/1 चेत् 0 कर्मणः 5/1 ते 6/1” (भ. गी. ३ । १) इत्यादिः 1/1

एकपुरुषानुष्ठेयत्वासम्भवं बुद्धिकर्मणोः भगवता पूर्वमनुक्तं कथमर्जुनः अश्रुतं बुद्धेश्च कर्मणो ज्यायस्त्वं भगवत्यध्यारोपयेन्मृषैव ज्यायसी चेत्कर्मणस्ते मता बुद्धिः” (भ. गी. ३ । १) इति ॥
एक-पुरुष-अनुष्ठेयत्व-असम्भवम् 2/1 बुद्धि-कर्मणोः 6/2 भगवता 3/1 पूर्वम् 0 अनुक्तम् 2/1 कथम् 0 अर्जुनः 1/1 अश्रुतम् 2/1 बुद्धेः 6/1 कर्मणः 5/1 ज्यायस्त्वम् 2/1 भगवति 7/1 अध्यारोपयेत् III/1 मृषा 0 एव 0 ज्यायसी चेत्कर्मणस्ते मता बुद्धिः” (भ. गी. ३ । १) इति ॥

किञ्च यदि बुद्धिकर्मणोः सर्वेषां समुच्छय उक्तः स्यात् अर्जुनस्यापि स उक्त एवेति, “यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्” (भ. गी. ५ । १) इति कथमुभयोरुपदेशे सति अन्यतरविषय एव प्रश्नः स्यात् ?
किञ्च 0यदि 0 बुद्धिकर्मणोः 6/2 सर्वेषाम् 6/3 समुच्छयः 1/1 उक्तः 1/1 स्यात् 1/1 अर्जुनस्य 6/1 अपि 0 सः 1/1 उक्तः 1/1 एव 0 इति 0, “यत् 1/1 श्रेयः 1/1 एतयोः 6/2 एकम् 1/1 तत् 2/1 मे 4/1 ब्रूहि II/1 सुनिश्चितम् 2/1” (भ. गी. ५ । १) इति 0 कथम् 0 उभयोः 6/2 उपदेशे 7/1 सति 7/1 अन्यतर-विषयः 1/1 एव 0 प्रश्नः 1/1 स्यात् III/1 ?

न हि पित्तप्रशमनार्थिनः वैद्येन मधुरं शीतलं च भोक्तव्यम् इत्युपदिष्टे तयोरन्यतरत्पित्तप्रशमनकारणं ब्रूहि इति प्रश्नः सम्भवति ॥
0 हि 0 पित्त-प्रशमन-अर्थिनः 6/1 वैद्येन 3/1 मधुरम् 1/1 शीतलम् 1/1 0 भोक्तव्यम् 1/1 इति 0 उपदिष्टे 7/1 तयोः 6/2 अन्यतरत् 2/1 पित्त-प्रशमन-कारणम् 2/1 ब्रूहि II/1 इति 0 प्रश्नः 1/1 सम्भवति III/1

अथ अर्जुनस्य भगवदुक्तवचनार्थविवेकानवधारणनिमित्तः प्रश्नः कल्प्येत, तथापि भगवता प्रश्नानुरूपं प्रतिवचनं देयम् मया बुद्धिकर्मणोः समुच्छय उक्तः, किमर्थमित्थं त्वं भ्रान्तोऽसि इति ।
अथ 0 अर्जुनस्य 6/1 भगवत्-उक्त-वचन-अर्थ-विवेक-अनवधारण-निमित्तः 1/1 प्रश्नः 1/1 कल्प्येत III/1, तथापि 0 भगवता 3/1 प्रश्न-अनुरूपम् 0 प्रतिवचनम् 1/1 देयम् 1/1मया 3/1 बुद्धि-कर्मणोः 6/2 समुच्छयः 1/1 उक्तः 1/1, किमर्थम् 0 इत्थम् 0 त्वम् 1/1 भ्रान्तः 1/1 असि II/1इति 0

न तु पुनः प्रतिवचनमननुरूपं पृष्टादन्यदेव द्वे निष्ठे मया पुरा प्रोक्ते” (भ. गी. ३ । ३) इति वक्तुं युक्तम् ॥
0 तु 0 पुनः 0 प्रतिवचनम् 1/1 अननुरूपम् 0 पृष्टात् 5/1 अन्यत् 1/1 एव 0द्वे 1/2 निष्ठे 1/2 मया 3/1 पुरा 0 प्रोक्ते 1/2” (भ. गी. ३ । ३) इति 0 वक्तुम् 0 युक्तम् 1/1

नापि स्मार्तेनैव कर्मणा बुद्धेः समुच्चये अभिप्रेते विभागवचनादि सर्वमुपपन्नम् ।
0 अपि 0 स्मार्तेन 3/1 एव 0 कर्मणा 3/1 बुद्धेः 6/1 समुच्चये 7/1 अभिप्रेते 7/1 विभाग-वचन-आदि 1/1 सर्वम् 1/1 उपपन्नम् 1/1

किञ्च क्षत्रियस्य युद्धं स्मार्तं कर्म स्वधर्म इति जानतः तत्किं कर्मणि घोरे मां नियोजयसि” (भ. गी. ३ । १) इति उपालम्भोऽनुपपन्नः ॥
किञ्च 0 क्षत्रियस्य 6/1 युद्धम् 1/1 स्मार्तम् 1/1 कर्म 1/1 स्वधर्मः 1/1 इति 0 जानतः 6/1 तत्किं कर्मणि घोरे मां नियोजयसि” (भ. गी. ३ । १) इति 0 उपालम्भः 1/1 अनुपपन्नः 1/1

तस्माद्गीताशास्त्रे ईषन्मात्रेणापि श्रौतेन स्मार्तेन वा कर्मणा आत्मज्ञानस्य समुच्चयो न केनचिद्दर्शयितुं शक्यः ।
तस्मात् 5/1 गीताशास्त्रे 7/1 ईषत्-मात्रेण 3/1 अपि 0 श्रौतेन 3/1 स्मार्तेन 3/1 वा 0 कर्मणा 3/1 आत्म-ज्ञानस्य 6/1 समुच्चयः 1/1 0 केनचित् 0 दर्शयितुम् 0 शक्यः 1/1

यस्य तु अज्ञानात् रागादिदोषतो वा कर्मणि प्रवृत्तस्य यज्ञेन दानेन तपसा वा विशुद्धसत्त्वस्य ज्ञानमुत्पन्नम्परमार्थतत्त्वविषयम् एकमेवेदं सर्वं ब्रह्म अकर्तृ चइति, तस्य कर्मणि कर्मप्रयोजने च निवृत्तेऽपि लोकसङ्ग्रहार्थं यत्नपूर्वं यथा प्रवृत्तिः, तथैव प्रवृत्तस्य यत्प्रवृत्तिरूपं दृश्यते न तत्कर्म येन बुद्धेः समुच्चयः स्यात् ।
यस्य 6/1 तु 0 अज्ञानात् 5/1 रागादि-दोषतः 0 वा 0 कर्मणि 7/1 प्रवृत्तस्य 6/1 यज्ञेन 3/1 दानेन 3/1 तपसा 3/1 वा 0 विशुद्ध-सत्त्वस्य 6/1 ज्ञानम् 1/1 उत्पन्नम् 1/1 परम-अर्थ-तत्त्व-विषयम् 1/1एकम् 1/1 एव 0 इदम् 1/1 सर्वम् 1/1 ब्रह्म 1/1 अकर्तृ 1/1 0इति 0, तस्य 6/1 कर्मणि 7/1 कर्म-प्रयोजने 7/1 0 निवृत्ते 7/1 अपि 0 लोक-सङ्ग्रह-अर्थम् 0 यत्न-पूर्वम् 0 यथा 0 प्रवृत्तिः 1/1, तथा 0 एव 0 प्रवृत्तस्य 6/1 यत् 1/1 प्रवृत्ति-रूपम् 1/1 दृश्यते III/1 0 तत् 1/1 कर्म 1/1 येन 3/1 बुद्धेः 6/1 समुच्चयः 1/1 स्यात् III/1

यथा भगवतो वासुदेवस्य क्षत्रधर्मचेष्टितं न ज्ञानेन समुच्चीयते पुरुषार्थसिद्धये, तद्वत् तत्फलाभिसन्ध्यहङ्काराभावस्य तुल्यत्वाद्विदुषः ।
यथा 0 भगवतः 6/1 वासुदेवस्य 6/1 क्षत्र-धर्म-चेष्टितम् 1/1 0 ज्ञानेन 3/1 समुच्चीयते III/1 पुरुष-अर्थ-सिद्धये 4/1, तद्वत् 0 तत्-फल-अभिसन्धि-अहङ्कार-अभावस्य 6/1 तुल्यत्वात् 5/1 विदुषः 6/1

तत्त्वविन्नाहं करोमीति मन्यते, न च तत्फलमभिसन्धत्ते ।
तत्त्ववित् 1/1 0 अहम् 1/1 करोमि I/1 इति 0 मन्यते III/1, 0 0 तत्फलम् 2/1 अभिसन्धत्ते III/1

यथा च स्वर्गादिकामार्थिनः अग्निहोत्रादिकर्मलक्षणकर्मानुष्ठानाय आहिताग्नेः काम्ये एव अग्निहोत्रादौ प्रवृत्तस्य सामि कृते विनष्टेऽपि कामे तदेव अग्निहोत्राद्यनुतिष्ठतोऽपि न तत्काम्यमग्निहोत्रादि भवति ।
यथा 0 0 स्वर्ग-आदि-काम-अर्थिनः 6/1 अग्निहोत्र-आदि-कर्म-लक्षण-कर्म-अनुष्ठानाय 4/1 आहित-अग्नेः 6/1 काम्ये 7/1 एव 0 अग्निहोत्र-आदौ 7/1 प्रवृत्तस्य 6/1 सामि 0 कृते 7/1 विनष्टे 7/1 अपि 0 कामे 7/1 तत् 2/1 एव 0 अग्निहोत्र-आदि 2/1 अनुतिष्ठतः 6/1 अपि 0 0 तत् 1/1 काम्यम् 1/1 अग्निहोत्रादि 1/1 भवति III/1

तथा च दर्शयति भगवान् — “कुर्वन्नपि न लिप्यते” (भ. गी. ५ । ७) न करोति न लिप्यते” (भ. गी. १३ । ३१) इति तत्र तत्र ॥
तथा 0 0 दर्शयति III/1 भगवान् 1/1 — “कुर्वन् 1/1 अपि 0 0 लिप्यते III/1” (भ. गी. ५ । ७) 0 करोति III/1 0 लिप्यते III/1” (भ. गी. १३ । ३१) इति 0 तत्र 0 तत्र 0

यच्च पूर्वैः पूर्वतरं कृतम्” (भ. गी. ४ । १५) कर्मणैव हि संसिद्धिमास्थिता जनकादयः” (भ. गी. ३ । २०) इति, तत्तु प्रविभज्य विज्ञेयम् ।
यत् 1/1 0 पूर्वैः 3/3 पूर्वतरम् 1/1 कृतम् 1/1” (भ. गी. ४ । १५) कर्मणा 3/1 एव 0 हि 0 संसिद्धिम् 2/1 आस्थिताः 1/3 जनक-आदयः 1/3” (भ. गी. ३ । २०) इति 0, तत् 1/1 तु 0 प्रविभज्य 0 विज्ञेयम् 1/1

तत्कथम् ? यदि तावत् पूर्वे जनकादयः तत्त्वविदोऽपि प्रवृत्तकर्माणः स्युः, ते लोकसङ्ग्रहार्थम् गुणा गुणेषु वर्तन्ते” (भ. गी. ३ । २८) इति ज्ञानेनैव संसिद्धिमास्थिताः, कर्मसंन्यासे प्राप्तेऽपि कर्मणा सहैव संसिद्धिमास्थिताः, न कर्मसंन्यासं कृतवन्त इत्यर्थः ।
तत् 1/1 कथम् 0 ? यदि 0 तावत् 0 पूर्वे 1/3 जनक-आदयः 1/3 तत्त्वविदः 1/3 अपि 0 प्रवृत्त-कर्माणः 1/3 स्युः III/3, ते 1/3 लोक-सङ्ग्रहार्थम् 0गुणाः 1/3 गुणेषु 7/3 वर्तन्ते III/3” (भ. गी. ३ । २८) इति 0 ज्ञानेन 3/1 एव 0 संसिद्धिम् 2/1 आस्थिताः 1/3, कर्म-संन्यासे 7/1 प्राप्ते 7/1 अपि 0 कर्मणा 3/1 सह 0 एव 0 संसिद्धिम् 2/1 आस्थिताः 1/3, 0 कर्म-संन्यासम् 2/1 कृतवन्तः 1/3 इत्यर्थः 1/1

अथ न ते तत्त्वविदः; ईश्वरसमर्पितेन कर्मणा साधनभूतेन संसिद्धिं सत्त्वशुद्धिम्, ज्ञानोत्पत्तिलक्षणां वा संसिद्धिम् , आस्थिता जनकादय इति व्याख्येयम् ।
अथ 0 0 ते 1/3 तत्त्वविदः 1/3; ईश्वर-समर्पितेन 3/1 कर्मणा 3/1 साधन-भूतेन 3/1 संसिद्धिम् 2/1 सत्त्व-शुद्धिम् 2/1, ज्ञान-उत्पत्ति-लक्षणाम् 2/1 वा 0 संसिद्धिम् 2/1, आस्थिताः 1/3 जनक-आदयः 1/3 इति 0 व्याख्येयम् 1/1

एतमेवार्थं वक्ष्यति भगवान् सत्त्वशुद्धये कर्म कुर्वन्ति” (भ. गी. ५ । ११) इति ।
एतम् 2/1 एव 0 अर्थम् 2/1 वक्ष्यति III/1 भगवान् 1/1 सत्त्वशुद्धये 4/1 कर्म 2/1 कुर्वन्ति 1/3” (भ. गी. ५ । ११) इति 0

स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः” (भ. गी. १८ । ४६) इत्युक्त्वा सिद्धिं प्राप्तस्य पुनर्ज्ञाननिष्ठां वक्ष्यति — “सिद्धिं प्राप्तो यथा ब्रह्म” (भ. गी. १८ । ५०) इत्यादिना ॥
स्व-कर्मणा 3/1 तम् 2/1 अभ्यर्च्य 0 सिद्धिम् 2/1 विन्दति III/1 मानवः 1/1” (भ. गी. १८ । ४६) इत्युक्त्वा 0 सिद्धिम् 2/1 प्राप्तस्य 6/1 पुनः 0 ज्ञान-निष्ठाम् 2/1 वक्ष्यति III/1 — “सिद्धिम् 2/1 प्राप्तः 1/1 यथा 0 ब्रह्म 2/1” (भ. गी. १८ । ५०) इत्यादिना 3/1

तस्माद्गीताशास्त्रे केवलादेव तत्त्वज्ञानान्मोक्षप्राप्तिः न कर्मसमुच्चितात्, इति निश्चितोऽर्थः ।
तस्मात् 5/1 गीताशास्त्रे 7/1 केवलात् 5/1 एव 0 तत्त्व-ज्ञानात् 5/1 मोक्ष-प्राप्तिः 1/1 0 कर्म-समुच्चितात् 5/1, इति 0 निश्चितः 1/1 अर्थः 1/1

यथा चायमर्थः, तथा प्रकरणशो विभज्य तत्र तत्र दर्शयिष्यामः ॥
यथा 0 0 अयम् 1/1 अर्थः 1/1, तथा 0 प्रकरणशः 0 विभज्य 0 तत्र 0 तत्र 0 दर्शयिष्यामः 1/3

तत्रैवं धर्मसंमूढचेतसो मिथ्याज्ञानवतो महति शोकसागरे निमग्नस्य अर्जुनस्य अन्यत्रात्मज्ञानादुद्धरणमपश्यन् भगवान्वासुदेवः ततः कृपया अर्जुनमुद्दिधारयिषुः आत्मज्ञानायावतारयन्नाह
तत्र 0 एवम् 0 धर्म-संमूढ-चेतसः 6/1 मिथ्या-ज्ञानवतः 6/1 महति 7/1 शोक-सागरे 7/1 निमग्नस्य 6/1 अर्जुनस्य 6/1 अन्यत्र 0 आत्म-ज्ञानात् 5/1 उद्धरणम् 2/1 अपश्यन् 1/1 भगवान् 1/1 वासुदेवः 1/1 ततः 0 कृपया 3/1 अर्जुनम् 2/1 उद्दिधारयिषुः 1/1 आत्म-ज्ञानाय 4/1 अवतारयन् 1/1 आह III/1
0 शोच्याः 1/3 अशोच्याः 1/3 भीष्म-द्रोण-आदयः 1/3, सद्-वृत्तत्वात् 5/1 परमार्थ-स्वरूपेण 3/1 0 नित्यत्वात् 5/1, तान् 2/3 अशोच्यान् 2/3 अन्वशोचः II/1 अनुशोचितवान् 1/1 असि II/1ते 1/3 म्रियन्ते III/3 मद्-निमित्तम् 0, अहम् 1/1 तैः 3/3 विनाभूतः 1/1 किम् 2/1 करिष्यामि I/1 राज्य-सुखादिना 3/1इति 0 त्वम् 1/1 प्रज्ञावादान् 2/3 प्रज्ञावताम् 6/3 बुद्धिमताम् 6/3 वादान् 2/3 0 वचनानि 2/3 0 भाषसे II/1। तत् 1/1 एतत् 2/1 मौढ्यम् 2/1 पाण्डित्यम् 2/1 0 विरुद्धम् 2/1 आत्मनि 7/1 दर्शयसि II/1 उन्मत्तः 1/1 इव 0 इत्यभिप्रायः 1/1 । यस्मात् 5/1 गतासून् 2/3 गतप्राणान् 2/3 मृतान् 2/3, अगतासून् 2/3 अगतप्राणान् 2/3 जीवतः 2/3 0 0 अनुशोचन्ति III/3 पण्डिताः 1/3 आत्मज्ञाः 1/3 । पण्डा 1/1 आत्मविषया 1/1 बुद्धिः 1/1 येषाम् 6/3 ते 1/3 हि 0 पण्डिताः 1/3, “पाण्डित्यम् 2/1 निर्विद्य 0(बृ. उ. ३ । ५ । १) इति श्रुतेः । परमार्थतः 0 तु 0 तान् 2/3 नित्यान् 2/3 अशोच्यान् 2/3 अनुशोचसि II/1, अतः 0 मूढः 1/1 असि II/1 इत्यभिप्रायः 1/1
Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.